List of top Sanskrit Questions

अद्यत्वे अस्माकं शान्तिप्रिये भारतवर्षे गंभीरा आतंकवाद-समस्या वर्तते । प्रतिदिनम् आतंकवादिन: अनेकान् निरीहान् जनान् व्यापादयन्ति । जम्मूकाश्मीरे नियुक्ता: भारतीयसैनिका: स्वदेशस्य रक्षायै प्राणान् अपि समर्पयन्ति । काश्मीरे नियुक्त – सैनिकानां भार्या: आशङ्किता: भवन्ति, यत् न जाने कदा तासां पति: संघर्षे वीरगतिं प्राप्नुयात् । अस्माकं प्रतिवेशिना पाकिस्तानदेशेन आतंकवादिभ्य: अस्त्रशस्त्राणि धनादीनि च प्रदीयन्ते । केचन अपरिपक्वबुद्धय: युवका: प्रतिवेशिदेशस्य मिथ्याप्रचारै: भ्रान्ता: सन्त: हिंसामार्गम् अनुगच्छन्ति । “हिंसामाध्यमेन न कस्या: अपि समस्याया: समाधानं प्राप्तुं शक्यते” इति प्रधानमन्त्रिणा मुहु: मुहु: कथ्यते । वस्तुत: सम्पूर्ण: विश्व: एव आतंकवादस्य समस्यया ग्रस्त: वर्तते न केवलं भारतवर्ष: एव, अत: विश्वस्य प्रमुखै: राष्ट्राध्यक्षै: एतस्य आतंकवादस्य समूलनाशाय कश्चन उपाय: यथाशीघ्रं चिन्तनीय: ।