अधोलिखित-कथांशं समुचित-क्रमेण लिखत -
(i) रुदती सुरभिं दृष्ट्वा सुराधिपः तामपृच्छत्।
(ii) सा अकथयत् - अहं पुत्रस्य दैन्यं दृष्ट्वा रोदिमि।
(iii) स्वपुत्रं पतितं दृष्ट्वा सर्वधेनूनां माता सुरभिः अरोदत्।
(iv) अयि शुभे! किमेवं रोदिषि?
(v) दुर्बलः बलीवर्दः गन्तुमशक्तः भूमौ अपतत्।
(vi) सः कृषकः कर्षणविमुखः सन् बलीवर्दौ नीत्वा गृहम् अगच्छत्।
(vii) अचिरादेव तत्र चण्डवातेन मेघरवैश्च प्रवर्षः समजायत।
(viii) कृषकः तं दुर्बलं वृषभं तोदनेन नुद्यमानः अवर्तत।