मञ्जूषायां प्रदत्तशब्दानां सहायतया अधोलिखितायां-लघुकथायां रिक्तस्थानानि पूरयित्वा कथां पुन: लिखत । नागार्जुन: प्रसिद्ध: रसायनशास्त्रज्ञ: सुविख्यात: (i)___ अपि च आसीत् । देशविदेशेषु तस्य (ii)___ प्रसृता । एकदा तस्य समीपे (iii)___ युवकौ आगच्छताम् । तौ तस्य सहायकौ भवितुम् इच्छत: स्म । नागार्जुन: उभाभ्याम् अपि एकम् एकं वस्तु (iv)___ उक्तवान् - श्व: अनेन रसायनं निर्माय (v)___ । तेनैव भवतो: परीक्षा भविष्यति, एकस्य चयनमपि (vi)___ । अन्यस्मिन् दिने एक: रसायनं (vii)___ आनीतवान् । द्वितीय: अवदत् - कृपया क्षम्यताम् । मया मार्गे एक: वृद्ध: रोगी (viii)___ । तं चिकित्सालयं नीत्वा सेवां कृतवान् । अत: (ix)___ समय एव न लब्ध: । स: रुग्ण: नागार्जुनेन एव मार्गे (x)___ स्थापित: आसीत् । अत: द्वितीय: एव युवक: परीक्षायां सफल: जात: ।
मञ्जूषा: रसायननिर्माणार्थं, वैद्य:, दत्वा, निर्माय, करिष्यामि, आनेतव्यम्, कीर्ति:, दृष्ट:, परीक्षायै, द्वौ ।