List of top Questions asked in Maharashtra Class X Board

गद्यांशः 
किञ्चित्कालानन्तरं शृगालः मृगम् अवदत्, 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्, "इदानीं मित्राण्येव शरणं मम।" दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः। सोऽचिन्तयत्, "फलितः मे मनोरथः। इदानीं प्रभूतं भोजनं प्राप्स्यामि।" मृगस्तं दृष्ट्वा अब्रवीत्, "मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।" जम्बूको दूरादेवावदत्, "मित्र, दृढोऽयं बन्धः। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः। 
प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्?" मृगेणोक्तम्, "सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च - 
सुहृदां हितकामानां यः शृणोति न भाषितम्। 
विपत् सन्निहिता तस्य सः नरः शत्रुनन्दनः॥" 
काकः अब्रूत, "स वञ्चकः क्वास्ते?" मृगेणोक्तम्, "मन्मांसार्थी तिष्ठत्यत्रैष।" काकः उक्तवान्, "उपायस्तावत् चिन्तनीयः।"