गद्यांशः
एकस्मिन् दिने आचार्यः शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्रः मलिनकायः, जीर्णवस्त्रधारी मनुष्यः तस्य पुरतः आगच्छत्। तं दृष्ट्वा शिष्याः तम्, 'अपसर, अपसर' इति उच्चैः अवदन्।
सः मनुष्यः अपृच्छत्- "अपसर, अपसर इति कं वदसि? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंशः अतः सर्वेषां समानः एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्नः?" वेदान्ततत्त्वस्य सारं तस्य मुखात् श्रुत्वा आचार्यः तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्यः तत्रैव 'मनीषापञ्चकम्' इति स्तोत्रं रचितवान्।
एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः।
अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रवित्।
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात्॥