List of top Questions asked in Maharashtra Class X Board

गद्यांशः 
एकस्मिन् दिने आचार्यः शिष्यगणेन सह गङ्गास्नानार्थम् अगच्छत्। तदा मार्गे कोऽपि दरिद्रः मलिनकायः, जीर्णवस्त्रधारी मनुष्यः तस्य पुरतः आगच्छत्। तं दृष्ट्वा शिष्याः तम्, 'अपसर, अपसर' इति उच्चैः अवदन्। 
सः मनुष्यः अपृच्छत्- "अपसर, अपसर इति कं वदसि? शरीरं वा आत्मानं वा? आत्मा तु परमेश्वरस्य अंशः अतः सर्वेषां समानः एव। तथा च सर्वेषां शरीराणि पञ्चमहाभूतात्मकानि। तर्हि कथं तव शरीरं मम शरीराद् भिन्नम्, अहं च त्वद् भिन्नः?" वेदान्ततत्त्वस्य सारं तस्य मुखात् श्रुत्वा आचार्यः तं प्रणनाम। ज्ञानं तु कस्मादपि ग्राह्यम्। यस्माद् ज्ञानं लभते स गुरुरेव इति विचारेण आचार्यः तत्रैव 'मनीषापञ्चकम्' इति स्तोत्रं रचितवान्। 
एवम् आसेतुहिमाचलं पर्यटन् अद्वैत-सिद्धान्तस्य प्रचारम् अकरोत् सः। 
अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रवित्। 
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरभ्यगात्॥