गद्यांशः
किञ्चित्कालानन्तरं शृगालः मृगम् अवदत्, 'वनेऽस्मिन् एकं सस्यपूर्णक्षेत्रमस्ति। दर्शयामि त्वाम्।' तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। तद् दृष्ट्वा एकस्मिन् दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशैर्बद्धः। सः अचिन्तयत्, "इदानीं मित्राण्येव शरणं मम।" दूरात् तत् पश्यन् जम्बूकः मनसि आनन्दितः। सोऽचिन्तयत्, "फलितः मे मनोरथः। इदानीं प्रभूतं भोजनं प्राप्स्यामि।" मृगस्तं दृष्ट्वा अब्रवीत्, "मित्र, छिन्धि तावन्मम बन्धनम्। त्रायस्व माम्।" जम्बूको दूरादेवावदत्, "मित्र, दृढोऽयं बन्धः। स्नायुनिर्मितान् पाशानेतान् कथं वा व्रतदिवसे स्पृशामि ?" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।
प्रदोषकाले मृगमन्विष्यन् काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्ट्वा स उवाच, "सखे! किमेतत्?" मृगेणोक्तम्, "सुहृद्वाक्यस्य अनादरात् बद्धोऽहम्। उक्तं च -
सुहृदां हितकामानां यः शृणोति न भाषितम्।
विपत् सन्निहिता तस्य सः नरः शत्रुनन्दनः॥"
काकः अब्रूत, "स वञ्चकः क्वास्ते?" मृगेणोक्तम्, "मन्मांसार्थी तिष्ठत्यत्रैष।" काकः उक्तवान्, "उपायस्तावत् चिन्तनीयः।"
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
(1) एकस्मिन् दिने \(\underline{\hspace{2cm}}\) पाशः योजितः। (क्षेत्रपतिना/जम्बूकेन)
(2) फलितः मे \(\underline{\hspace{2cm}}\)। (कार्यभागः/मनोरथः)
पूर्णवाक्येन उत्तरं लिखत। क्षुद्रबुद्धिः कुत्र निभृतं स्थितः?
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। क्षेत्रम् आगतः शृगालः पाशैर्बद्धः।
एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
लकारं लिखत। इदानीं प्रभूतं भोजनं \(\underline{प्राप्स्यामि}\) ।
सन्धिविग्रहं कुरुत। वनेऽस्मिन् = \(\underline{\hspace{2cm}}\) + \(\underline{\hspace{2cm}}\)
प्रश्न-निर्माणं कुरुत। \(\underline{प्रदोषकाले}\) मृगमन्विष्यन् काकः तत्रोपस्थितः।
पृथक्करणम्। क्रमेण योजयत।
(1) क्षेत्रपतिना पाशयोजनम्।
(2) शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम्।
(3) मृगस्य पाशबन्धनम्।
(4) मृगस्य प्रत्यहं क्षेत्रं गमनम्।