गद्यांशः
स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री पण्डिता रमादेवी महाराष्ट्रभूमेः सुकन्या आसीत्। डोंगरेकुले व्युत्पन्नः अनन्तशास्त्री एतस्याः पिता। सुशीला लक्ष्मीबाई च माता। संस्कृते तस्याः विशेष-अनुरागः। सरस्वत्याः प्रसादात् सा वक्तृत्वे अपि निपुणा आसीत्। यद्यपि बहवः ग्रन्थाः तया पठिताः तथापि सा स्वतन्त्रबुद्धिः एव आसीत्। सा प्रगत-अध्ययनार्थम् आङ्ग्लदेशं गता। किन्तु तया न स्ववेषः त्यक्तः, न वा स्वभाषा। रमादेवी नाम विविधगुणानां सुन्दरः कोषः आसीत् खलु।
पूर्णवाक्येन उत्तरं लिखत। स्त्रीणां स्वातन्त्र्यस्य प्रथमा प्रणेत्री का आसीत् ?
प्रातिपदिकं लिखत।
(क) ग्रन्थाः
(ख) तया
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत। रमादेवी प्रगत-अध्ययनार्थम् आङ्ग्लदेशं गता।
माध्यमभाषया सरलार्थं लिखत। रमादेवी वक्तृत्वे निपुणा आसीत्।
गद्यांशात् एकम् अव्ययं चित्वा लिखत।
कारकपरिचयं कुरुत। संस्कृते तस्याः विशेष-अनुरागः।