वेदम् अनूच्य आचार्योऽन्तेवासिनम् अनुशास्ति । सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमद: । आचार्याय प्रियं धनम् आहृत्य प्रजातन्तुं मा व्यवच्छेत्सी: । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम् । देवपितृ-कार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।