गद्यांशं पठित्वा सरलार्थं लिखत।
श्रोतृवृन्दः - नदीपूजनम् ? किमर्थ नदीपूजनम् ?
कीर्तनकारः - नदी खलु जीवनदायिनी। अतः अस्मिन्नवसरे कृतज्ञतां प्रदर्शयितुं जनाः जले दीपदानं कुर्वन्ति । द्रोणे दीपं प्रज्वाल्य नदीजले समर्पयन्ति ।
गद्यांश का हिन्दी में अनुवाद कीजिए : लोकमान्य बालगङ्गाधरतिलको नाम मनीषी भारतीय स्वातन्त्र्ययुद्धस्य प्रमुखसेनानीष्वन्यतम आसीत् । बालः इति वास्तविकं तस्याभिधानम् । पितुरभिधानं गङ्गाधरः इति वंशश्च तिलकः एवञ्च 'बालगङ्गाधरतिलकः' इति सम्पूर्णभिधानं किन्तु 'लोकमान्य' विरुदेनासौ विशेषेण प्रसिद्धः ।
गद्यांश का हिन्दी में अनुवाद कीजिए : संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा विपुलज्ञान-विज्ञानसम्पन्ना सरला सुमधुरा हृद्या चेति सर्वैरपि प्राच्यपाश्चात्यविद्वद्भिरेकस्वरेणाङ्गीक्रियते । भारतीय-विद्याविशारदैस्तु संस्कृतं नाम दैवीवागन्वाख्याता - महर्षिभिः इति संस्कृतभाषा हि गीर्वाणवाणीति नाम्ना सश्रद्धं समाम्नाता ।
संस्कृतभाषा पुराकाले सर्वसाधारणजनानां वाग्व्यवहारभाषा चासीत् । तत्रेदं श्रूयते यत् पुरा कोऽपि नरः काष्ठभारं स्वशिरसि निधाय काष्ठं विक्रेतुमापणं गच्छति स्म । मार्गे नृपः तेनामिलदपृच्छच्च, भो ! भारं बाधति ? काष्ठभारवाहको नृपं तत्प्रश्नोत्तरस्य प्रसङ्गेऽवदत् – “भारं न बाधते राजन् यथा बाधति बाधते ।” अनेनेदं सुतरामायाति यत्प्राचीनकाले भारतवर्षे संस्कृतभाषा साधारणजनानां भाषा आसीदिति ।
कालिदासकाव्येषु अङ्गीरसः शृङ्गारोऽस्ति । तस्य पुष्ट्यर्थं करुणादयोऽन्ये रसाः अङ्गभूताः । रसानुरूपं क्वचित् प्रसादः क्वचिच्च माधुर्यं तस्य काव्योत्कर्षे साहाय्यं कुरुतः । वैदर्भी रीतिः कालिदासस्य वाग्वश्येव सर्वत्रानुवर्तते । अलङ्कार योजनायां कालिदासोऽद्वितीयः । यद्यपि उपमा कालिदासस्येत्युक्तिः उपमायोजनायामेव कालिदासस्य वैशिष्ट्यमाख्याति तथापि उत्प्रेक्षार्थान्तरन्यासादीनामलङ्काराणां विनियोगः तेनातीव सहजतया कृतः ।
त्रिसप्तत्यधिकषड्दशशततमे ख्रीष्टाब्दे (1873) अयं महाराष्ट्रे सत्यशोधक समाजनामकी संस्था संचरितवान्। नारीणां दलितानां चोद्धारायायमनेकाानि कार्याण्यकरोत्। भारतीयाः मानवाः सर्वे शिक्षिताः स्युः इति अस्य एतत् चिन्तनमासीत्।
Study the entries in the following table and rewrite them by putting the connected items in the single row: 