List of top Questions asked in Maharashtra Class X Board- 2023

गद्यांशं पठित्वा कृतीः कुरुत। 
गङ्‌गातीरे एकः साधुः आसीत्। यः अपकारं करोति तस्यापि उपकारं करोति स्म सः। प्रतिदिनं सः गङ्गानद्यां स्नानं करोति स्म। एकस्मिन् दिने नदीप्रवाहे सः एकं वृश्चिकं दृष्टवान्। तं हस्तेन गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्। किन्तु वृश्चिकः साधोः हस्तम् अदशत्। साधुः वृश्चिकं त्यक्तवान्। वृश्चिकः जले अपतत्। साधुः पुनः तं तीरे स्थापयितुं प्रयत्नं कृतवान्। पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान्। वृश्चिकः अपि अदशत्। नदीतीरे कश्चनं पुरुषः आसीत्। सः साधुम् उक्तवान्, "साधुमहाराज ! अयं दुष्टः वृश्चिकः पुनः पुनः दशति । भवान् किमर्थं तं हस्ते वृथा स्थापयति ? वृश्चिकं त्यजतु" इति। "वृश्चिकः क्षुद्रः जन्तुः। दशनं तस्य स्वभावः । सः स्वस्वभावं न त्यजति। अहं तु मनुष्यः। अहं मम परोपकारस्वभावं कथं त्यजामि ?" इति साधुः तं पुरुषम् उक्तवान् ।