पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥
अयं न भक्तो न च पूजको वा
घण्टां स्वयं नादयते तथापि ।
धनं जनेभ्यः किल याचतेऽयम्
न याचको वा न च निर्धनो वा ॥
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि ।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥
पूर्णवाक्येन उत्तरं लिखत ।
न्याय्यात्पथः के न विचलन्ति ?
विशेषण-विशेष्ययोः मेलनं कुरुत । 
जालरेखाचित्रं पूरयत।
\(\hspace{2.5cm}\) लोकयानवाहकः
\(\hspace{2cm}\)$\swarrow$ \(\hspace{2cm}\) $\searrow$
न \(\underline{\hspace{3cm}}\) \(\hspace{1cm}\) न \(\underline{\hspace{3cm}}\)
पद्यांशात् 2 द्वितीया-विभक्त्यन्तपदे लिखत।
पूर्वपदं लिखत ।
(1) अद्यैव = \(\underline{\hspace{1cm}}\) + एव ।
(2) याचतेऽयम् = \(\underline{\hspace{1cm}}\) + अयम् ।