गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
(अर्णवः जपाकुसुमं गृहीत्वा प्रविशति । तस्य पिता विज्ञानस्य प्राध्यापकः। सः पुस्तकपठने मग्नः। तस्य पार्वे उत्पीठिकायां सूक्ष्मेक्षिका वर्तते।)
अर्णवः - पितः, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया। कियन्तः सूक्ष्माः तस्य परागकणाः।
पिता - सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि ! (अर्णवः तथा करोति ।)
पिता - किं दृष्टं त्वया ?
अर्णवः - पितः, अद्भुतं एतत्। अत्र परागकणस्य सूक्ष्माणि अङ्गानि दृश्यन्ते ।
पिता - अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टुं शक्नोषि। परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।
अर्णवः - परमाणुः नाम किम् ?
पिता - अस्तु। कथयामि। मुष्टिमात्रान् तण्डुलान् महानसतः आनय ।
अर्णवः - (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।) स्वीकरोतु, तात ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
(1) एतद् विश्वं \(\underline{\hspace{1cm}}\) निर्मितम् । (तण्डुलेभ्यः/परमाणुभ्यः)
(2) अर्णवः उद्यानात् \(\underline{\hspace{1cm}}\) गृहीत्वा प्रविशति । (कमलं/जपाकुसुमं)
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत ।
परमाणवः सूक्ष्मेक्षिकया दृश्यन्ते।
एषः गद्यांशः कस्मात् पाठात् उद्धृतः ?
प्रवाहि-जालं पूरयत।
(तण्डुलान् आनयति।, सूक्ष्मेक्षिकया पश्यति।, जपाकुसुमं गृहीत्वा प्रविशति ।, परमाणुविषये पृच्छति ।)
गद्यांशे घटनानां क्रमः (The sequence of events in the passage is):