गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
अस्ति एकं चम्पकं नाम अरण्यम्। अरण्ये चित्राङ्गो नाम मृगः एकाक्षो नाम काकश्च स्नेहेन निवसतः स्म। एकदा चित्राङ्गः वने भ्रमन् केनापि शृगालेन अवलोकितः । क्षुद्रबुद्धिः नाम सः शृगालः स्वार्थहेतुना मृगेण सह मित्रताम् ऐच्छत्। अस्तङ्गते सवितरि क्षुद्रबुद्धिः मृगेण सह मृगस्य निवासस्थानं गतः। मृगशृगालौ दृष्ट्वा काकोऽवदत्, "सखे चित्राङ्ग! कोऽयं द्वितीयः ?" मृगः अब्रूत, "जम्बूकोऽयम्। अस्मत्सख्यम् इच्छति।" काकः उपादिशत्, "अकस्मादागन्तुना सह मित्रता न युक्ता।" तदाकर्ण्य जम्बूकः सकोपम् आह, "मृगस्य प्रथमदर्शने भवानपि अपरिचितः एव आसीत्। यथायं मृगः मम बन्धुः तथा भवानपि।" मृगः अब्रवीत्, "अलं विवादेन । वयं सर्वे आनन्देन एकत्र निवसामः।" काकेनोक्तम्, "एवमस्तु ।"
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
शृगालः मृगेण सह सख्यम् इच्छति यतः
(1) शृगालः मृगमांसं खादितुम् इच्छति ।
(2) शृगालः मृगे स्निह्यति।
कः कं वदति ?
"अकस्मादागन्तुना सह मित्रता न युक्ता।"
पूर्णवाक्येन उत्तरं लिखत :
अरण्ये कौ निवसतः स्म ?
गद्यांशात् 2 प्रथमाविभक्त्यन्तपदे चित्वा लिखत।
गद्यांशात् विशेषण-विशेष्ययोः मेलनं कुरुत। 
पूर्वपदं/उत्तरपदं लिखत ।
(1) केनापि = केन + \(\underline{\hspace{1cm}}\) ।
(2) जम्बूकोऽयम् = \(\underline{\hspace{1cm}}\) + अयम् ।